|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.44. अध्यायः 044
Mahabharata - Karna Parva - Chapter Topics
कर्णेन युधिष्ठिरस्य पराजयपूर्वकमपहासः॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-44-0x(4955)(57041)
विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत्।
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः॥ 8-44-1(57042)
नानायुधसहस्राणि प्रेरितान्यरिभिर्वृषः।
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमात्॥ 8-44-2(57043)
निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः॥
ते हता भूतले पेतुर्भग्नाश्चान्ये विदुद्रुवुः॥ 8-44-3(57044)
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः।
प्रभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे॥ 8-44-4(57045)
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः।
पेतुः पृथिव्यां युगपच्छिन्नं सालवनं यथा॥ 8-44-5(57046)
एवं योधशतान्याजौ सहस्राण्ययुतानि च।
हतानीयुर्महीं देहैर्यशसाऽपूरयन्दिशः॥ 8-44-6(57047)
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्।
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधा इव॥ 8-44-7(57048)
स तान्प्रमृद्याब्यपतत्पुनरेव युधिष्ठिरम्।
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा॥ 8-44-8(57049)
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः।
नाशकत्तानतिक्रान्तुं मृत्युर्ब्राह्मविदो यथा॥ 8-44-9(57050)
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्।
`तैर्योधप्रमुखैर्वीरं दृष्ट्वा विव्याध सायकैः॥ 8-44-10(57051)
कर्णः पार्थशराविद्धस्तोत्रार्दित इव द्विपः।
प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत्॥ 8-44-11(57052)
ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम्'।
अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः॥ 8-44-12(57053)
कर्णकर्ण वृथादृष्टे सूतपुत्र वचः शृणु।
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन तरस्विना॥ 8-44-13(57054)
यथाऽस्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः।
यद्बलं यच्च ते वीर्यं प्रद्वेषो यस्तु पाण्डुषु॥ 8-44-14(57055)
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः।
युद्धश्रद्वां च तेऽद्याहं विनेष्यामि महाहवे॥ 8-44-15(57056)
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा।
सुवर्णपुङ्खैर्दशभिर्विव्यादायस्मयैः शरैः॥ 8-44-16(57057)
तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिन्दमः।
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत॥ 8-44-17(57058)
सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण पाण्डवः।
प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः॥ 8-44-18(57059)
ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत।
युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः॥ 8-44-19(57060)
ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम्।
समाधत्त शितं बाणं गिरीणामपि दारणम्॥ 8-44-20(57061)
ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम्।
मुमोच त्वरितो राजा सूतपुत्रजिघांसया॥ 8-44-21(57062)
स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः।
विवेश सहसा कर्णं सव्ये पार्श्वे महारथम्॥ 8-44-22(57063)
स तु तेन प्रहारेण पीडितः प्रमुमोह वै।
स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य कम्पितः॥ 8-44-23(57064)
गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत्।
राजाऽपि भूयो नाजघ्ने कर्णं पार्थहितेप्सया॥ 8-44-24(57065)
ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत्।
विवर्णमुखमार्तं च कर्णं दृष्ट्वा तथागतम्॥ 8-44-25(57066)
सिंहनादाश्च सञ्जज्ञुः क्ष्वेलाः किलकिलास्तथा।
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम्॥ 8-44-26(57067)
प्रतिलभ्य तु राधेयः संज्ञां नातिचिरादिव।
दध्रे राजविनाशाय मनः क्रूरपराक्रमः॥ 8-44-27(57068)
स हेमविकृतं चापं विस्फार्य विजयं महत्।
अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः॥ 8-44-28(57069)
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः।
जघान चन्द्रदेवं च दण्डधारं च संयुगे॥ 8-44-29(57070)
तावुभौ धर्मराजस्य प्रवीरौ युधि भारत।
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू॥ 8-44-30(57071)
युधिष्ठिरः पुनः कर्णमविद्व्यत्त्रिंशता शरैः।
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्॥ 8-44-31(57072)
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्।
तांस्तस्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः॥ 8-44-32(57073)
ततः प्रहस्याधिरथिः षष्ठ्या राजञ्शितैः शरैः।
विद्ध्वा युधिष्ठिरं सङ्ख्ये ननादातिरथस्तदा॥ 8-44-33(57074)
ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः।
युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः॥ 8-44-34(57075)
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च।
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः॥ 8-44-35(57076)
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः।
कारूशा मात्स्यशेषाश्च केकयाः काशिकोसलाः॥ 8-44-36(57077)
एते च त्वरिता वीरा वसुषेणमताडयन्।
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः॥ 8-44-37(57078)
वाराहकर्णनाराचैर्नालीकैर्निशितैः शरैः।
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः॥ 8-44-38(57079)
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिभिः।
सर्वतोऽभ्यद्रवत्कर्णं परिवार्य जिघांसया॥ 8-44-39(57080)
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः।
छाद्यमानः शिततैर्घोरैः स्वस्वनामाङ्कितैः शरैः॥ 8-44-40(57081)
न चचाल रणे कर्णो महेन्द्रो दानवैरिव।
`निजघान महेष्वासान्पाञ्चालानेकविंशतिम्॥ 8-44-41(57082)
ततः पुनरमेयात्मा चेदीनां प्रवरान्दश।
न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा॥ 8-44-42(57083)
तस्य बाणसहस्राणि सम्प्रपन्नानि मारिष।
दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः॥ 8-44-43(57084)
कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः।
नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः॥ 8-44-44(57085)
कर्णेनैकेन समरे चेदीनां प्रवरास्तदा।
सृज्जयानां च सर्वेषां शतशो निहता रणे॥ 8-44-45(57086)
कर्णस्य शरसञ्छन्नं बभूव तुमुलं तमः।
नाज्ञायत ततः किञ्चित्परेषामात्मनोऽपि वा॥ 8-44-46(57087)
तस्मिंस्तमसि भूते च क्षत्रियाणां भयङ्करे।
विचचार महबिहुर्निर्दहन्क्षत्रियान्बहून्'॥ 8-44-47(57088)
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः।
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे॥ 8-44-48(57089)
`ततस्तेषां महाराज पाण्डवानां महारथाः।
सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः।
अस्त्रैः कर्णं महेष्वासं समन्तात्पर्यवारयन्॥ 8-44-49(57090)
स संवार्य महास्त्राणि महेष्वासो महात्मनाम्।
प्रहस्य पुरुषेन्द्रस्य कर्णश्चिच्छेद कार्मुकम्'॥ 8-44-50(57091)
ततः सन्धाय नवतिं निमेषान्नतपर्वणाम्।
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः॥ 8-44-51(57092)
तद्वर्म हेमविकृतं रत्नचित्रं बभौ पतत्।
सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा॥ 8-44-52(57093)
तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत।
रत्नैरलंवृतं चित्रेर्व्यभ्नं निशि यथा नभः॥ 8-44-53(57094)
भिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः।
बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः॥ 8-44-54(57095)
स शराचितसर्वाङ्गश्छिन्नवर्माऽथ संयुगे।
क्षात्रं धर्मं समास्थाय सिंहनादमकुर्वत॥ 8-44-55(57096)
नर्दित्वा च चिरं कालं पाण्डवो रभसो रणे।
शक्तिं चिक्षेप वेगेन प्रदीप्तामशनीमिव॥ 8-44-56(57097)
तां ज्वलन्तीमिवाकाशे शक्तिं शप्तभिराशुगैः।
भल्लैश्चिच्छेद राधेयः सा त्वशीर्यत वै रणे॥ 8-44-57(57098)
हृदि बाह्वोर्ललाटे च क्षिप्रकारी युधिष्ठिरः।
चतुर्भिस्तोमरैः कर्णं ताडयित्वाऽनदन्मुदा॥ 8-44-58(57099)
उद्भिन्नरुधिरः कर्णः क्रुद्वः सर्प इव श्वसन्।
जघान सूतं पार्थस्य पार्ष्ठिं च नवभिः शरैः॥ 8-44-59(57100)
ध्वजं चिच्छेद नृपतेस्त्रिभिर्विव्याध चैव तम्।
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्॥ 8-44-60(57101)
एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः।
ववृषुः शरवर्षाणि राधेयं प्रति भारत॥ 8-44-61(57102)
सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः।
अवर्षतां महाराज राधेयं शत्रुकर्शनम्॥ 8-44-62(57103)
शैनेयं तु ततुः क्रुद्धः कर्णः पञ्चभिरायसैः।
विव्याध समरे राजंस्त्रिभिश्चान्यैः शिलीमुखैः॥ 8-44-63(57104)
दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽभ्यविध्यत।
सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः॥ 8-44-64(57105)
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः।
सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति॥ 8-44-65(57106)
अथापरेण भल्लेन धनुश्छित्त्वा महारथः।
सारथेः सशिरस्त्राणं शिरः कायादपाहरत्॥ 8-44-66(57107)
हताश्वसूते तु रथे स्थितः स शिनिपुङ्गवः।
शक्तिं चिक्षेप कर्णाय वैदूर्यमणिभूषिताम्॥ 8-44-67(57108)
तामापतन्तीं सहसा द्विधा चिच्छेद भारत।
कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत्॥ 8-44-68(57109)
ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान्।
न्यवारयदमेयात्मा शिक्षया च बलेन च॥ 8-44-69(57110)
अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव।
पीडयन्धर्मराजानं शरैः सन्नतपर्वमिः।
अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः॥ 8-44-70(57111)
ततः पार्षो ह्यपासासीद्वताश्वो हतसारथिः।
अशक्नुवन्मुखे स्थातुं ततः कर्णस्य दुर्मनाः॥ 8-44-71(57112)
तमभिद्रुत्य राधेयः पाण्डुपुत्रं युधिष्ठिरम्।
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम्॥ 8-44-72(57113)
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः।
प्रजह्यात्समरे शत्रून्प्राणान्रक्ष महाहवे॥ 8-44-73(57114)
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः।
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि॥ 8-44-74(57115)
मा स्म युध्यस्व कौन्तेय मा स्म वीरान्समासदः।
मा चैवं विप्रियं ब्रूहि मा च त्वं भज संयुगम्॥ 8-44-75(57116)
वक्तव्या मारिषाऽन्ये तु न वक्तव्यास्तु मादृशाः।
मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे॥ 8-44-76(57117)
स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ।
न हि त्वां समरे राजन्हन्यात्कर्णः कथञ्चन॥ 8-44-77(57118)
सञ्जय उवाच। 8-44-78x(4956)
वरप्रदानं कुन्त्यास्तु कर्णः स्मृत्वा महारथः।
वधप्राप्तं तु कौन्तेयं नावधीत्पुरुषोत्तमः॥ 8-44-78(57119)
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः।
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम्॥ 8-44-79(57120)
ततोऽपायाद्द्रुतं राजन्व्रीडन्निव नरेश्वरः॥ 8-44-80(57121)
अथापयातं राजानं मत्वाऽन्वीयुस्तमच्युतम्।
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः।
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ॥ 8-44-81(57122)
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम्।
कुरुभिः सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात्॥ 8-44-82(57123)
भेरीशङ्खमृदङ्गानां कार्मुकाणां च निःस्वनः।
बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा॥ 8-44-83(57124)
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरम्।
श्रुतकीर्तेर्महाराज दृष्ट्वा तत्कर्णविक्रमम्॥ 8-44-84(57125)
काल्यमानं बलं दृष्ट्वा सूतपुत्रेण मारिष।
स्वान्योधानब्रवीत्क्रुद्वो निघ्नतैतान्किमासत॥ 8-44-85(57126)
ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः।
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन्॥ 8-44-86(57127)
अभवत्तुमुलः शब्दो योधानां तत्र भारत।
रथहस्त्यश्वपत्तीनां द्रवतां निनदो महान्।
उद्यतप्रतिविष्टानां शस्त्राणां च ततस्ततः॥ 8-44-87(57128)
आगच्छत प्रहरत क्षिप्रं विपरिधावत।
इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे॥ 8-44-88(57129)
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे।
समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम्॥ 8-44-89(57130)
विपताकध्वजच्छत्रा व्यश्वसूतरथायुधाः।
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणाः क्षितीश्वराः।
शिखराणीव शेलानां वज्रभिन्नानि मानिष॥ 8-44-90(57131)
सारोहा निहताः पेतुर्द्विपा भिन्ना महीतले।
छिन्नभिन्नविपर्यस्तवर्मालङ्कारविग्रहाः॥ 8-44-91(57132)
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः।
विप्रविद्वायुधाङ्गाश्च द्विरदा रथिभिर्हताः।
प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घाः सहस्रशः॥ 8-44-92(57133)
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः।
शिरोभिर्युद्धशौण्डानां सर्वतः संवृता मही॥ 8-44-93(57134)
यथा भुवि तथा व्योम्नि निःस्वनं शुश्रुवुर्जनाः।
विमानेऽप्सरसां सङ्घैर्गीतवादित्रनिःस्वनैः॥ 8-44-94(57135)
हतानभिमुखान्वीरान्वीरैः शतसहस्रशः।
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः॥ 8-44-95(57136)
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया।
प्रहृष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम्॥ 8-44-96(57137)
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे।
पत्तयः पत्तिभिर्नागाः सह नागैर्हयैर्हयोः॥ 8-44-97(57138)
एवं प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये।
सैन्येन रजसा वृत्तते स्वे स्वाञ्जघ्नुः परे परान्॥ 8-44-98(57139)
कचाकचं युद्धमासीद्दन्तादन्ति नखानखि।
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम्॥ 8-44-99(57140)
तथा वर्ततति सङ्ग्रमे गजवाजिनरक्षये।
नराश्वनागदेहेभ्यः प्रसृता लोहितापगा॥ 8-44-100(57141)
गजाश्वनरदेहान्सा व्युवाह पतितान्बहून्।
नराश्वगजसम्बाधे नराश्वगजसादिनाम्॥ 8-44-10(57142)
लोहितोदा महाघोरा मांसशोणितकर्दमा।
नराश्वगजदेहान्वै वहन्ती भीरुभीषणा॥ 8-44-10(57143)
तस्या नद्याः परं पारं व्रजन्ति विजयैषिणः।
नागेन च प्लवन्तो वै निमज्ज्योन्मज्ज्य चापरे॥ 8-44-10(57144)
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः।
सस्नुस्ततस्यां पपुश्चास्रं मम्लुश्च भरतर्षभ॥ 8-44-10(57145)
रथानश्वान्नारान्नागानायुधाभरणानि च।
वर्माणि चाप्यपश्याम पतितानि सहस्रशः।
खं द्यां भूमिं दिशश्चैव प्रायः पश्याम लोहिताः॥ 8-44-10(57146)
लोहितस्य तु गन्धेन स्पर्देन च रसेन च।
रूपेण चातिरक्ततेन शब्देन च विसर्पता।
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत॥ 8-44-10(57147)
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव।
भूयः समाद्रवन्वीराः सातत्यकिप्रमुखास्तदा॥ 8-44-10(57148)
तेषामापतततां वेगमविषह्यं निरीक्ष्य च।
पुत्राणां ते महासैन्यमासीद्राजन्पराङ्मुखम्॥ 8-44-10(57149)
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्।
विध्वस्तवर्मकवचं प्रविद्वायुधकार्मुकम्॥ 8-44-10(57150)
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः।
सिंहार्दितमिवारण्ये यथा गजकुलं तथा॥ ॥ 8-44-10(57151)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-44-8 मन्त्रौषधक्रिया व्याधिर्विधिहीनक्रिया इव इति ख.ट.पाठः॥ 8-44-19 कचाकचि युद्धं इति झ.पाठः॥ 8-44-44 चतुश्चत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|